आरूढा सरस्वतीस्तोत्रम्

 


श्रीसरस्वतीस्तोत्रम् 

आरूढासरस्वतीस्तोत्रम् च

श्रीगणेशाय नमः ।

ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य । ब्रह्मा ऋषिः ।

गायत्री छन्दः । श्रीसरस्वती देवता ।

धर्मार्थकाममोक्षार्थे जपे विनियोगः ।


आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं

वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः

क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १॥


श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।

अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा ।

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २॥


शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३॥


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४॥


बीजमन्त्रगर्भित स्तुतिः -

ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे ।

पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि

प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ ५॥


ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे

रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।

न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्त्वे

विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥ ६॥


ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।

विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे ।

मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥ ७॥


धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।

पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे

मातर्मात्रार्धतत्त्वे मतिमति मतिदे माधवप्रीतिमोदे ॥ ८॥


ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते

सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।

मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे

गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये ॥ ९॥


आत्मनिवेदनम् -

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा

मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम् ।

मा मे दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं

शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ १०॥


इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो

वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः ।

सः स्यादिष्टार्थलाभैः सुतमिव सततं पातितं सा च देवी

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति ॥ ११॥


र्निविघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः

कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।

दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो

वाग्देव्याः सम्प्रसादात्त्रिजगति विजयी जायते सत्सभासु ॥ १२॥


फलश्रुतिः -

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।

सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् ॥ १३॥


पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।

अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ॥ १४॥


सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।

वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १५॥


ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।

प्रयत्नेन पठेन्नित्यं सोऽमृतत्त्वाय कल्पते ॥ १६॥


॥ इति रुद्रयामलतन्त्रान्तर्गतं श्रीमद्ब्रह्मणा विरचितं सरस्वतीस्तोत्रं अथवा आरूढासरस्वतीस्तोत्रं सम्पूर्णम् ॥

Comments